(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.123. अध्यायः 123
Mahabharata - Udyoga Parva - Chapter Topics
स्वर्गे ययातिप्रश्नानुरोधेन पितामहेन तत्पतनकारणकथनम् ॥ 1 ॥ नारदेन ययात्युपाख्यानोपसंहारपूर्वकं दुर्योधनंप्रति गालवययातिदृष्टान्तप्रदर्शनेन निर्बन्धाभिमानत्यागपूर्वकं पाण्डवैः सन्धिकरणविधानम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

नारद उवाच। 5-123-0x(3753)(35918)
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः ।
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ॥ 5-123-1(35919)
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना।
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥ 5-123-2(35920)
अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् ।
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥ 5-123-3(35921)
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः ॥ 5-123-4(35922)
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥ 5-123-5(35923)
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः ।
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥ 5-123-6(35924)
चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा ।
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ॥ 5-123-7(35925)
पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम्।
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ॥ 5-123-8(35926)
येन त्वां नाभिजानन्ति ततोऽज्ञातोसि पातितः ।
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ॥ 5-123-9(35927)
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥ 5-123-10(35928)
ययातिरुवाच। 5-123-11x(3754)
भगवन्संशयो मेऽस्ति कश्चितं छेत्तुमर्हसि ।
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥ 5-123-11(35929)
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्।
अनेकक्रतुदानौघैरार्जितं मे महत्फलम् ॥ 5-123-12(35930)
कथं तदल्पकालेन क्षीणं येनास्मि पातितः ।
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान् ।
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते ॥ 5-123-13(35931)
पितामह उवाच। 5-123-14x(3755)
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्।
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥ 5-123-14(35932)
तदनेनैव दोषेण क्षीणं येनासि पातितः।
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥ 5-123-15(35933)
नायं मानेन राजर्षे न बलेन न हिंसया।
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥ 5-123-16(35934)
नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः।
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित् ॥ 5-123-17(35935)
पतनारोहणमिदं कथयिष्यन्ति ये नराः ।
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥ 5-123-18(35936)
नारद उवाच। 5-123-19x(3756)
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।
निर्बध्नताऽतिमात्रं च गालवेन महीपते ॥ 5-123-19(35937)
श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम्।
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥ 5-123-20(35938)
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥ 5-123-21(35939)
स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम् ।
समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि ॥ 5-123-22(35940)
ददाति यत्पार्थिव यत्करति
यद्वा तपस्तप्यति यञ्जुहोति।
न तस्य नाशोऽस्ति न चापकर्षो
नान्यस्तदश्नाति स एव कर्ता ॥ 5-123-23(35941)
इदं महाख्यानमनुत्तमं हितं
बहुश्रुतानां गतरोषरागिणाम्।
समीक्ष्य लोके बहुधा प्रधारितं
त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥ 5-123-24(35942)
` एतत्पुण्यतमं राजन्ययातेश्चरितं महत्।
यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्तीह मानवाः ॥' ॥ 5-123-25(35943)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-123-8 स्वकृतेन सम्यक्संपादितेन कर्मणा। मया समोऽन्यो नास्तीति वाक्प्रयोगेण। तमसा क्रोधेन ॥ 5-123-24 प्रधारितं निश्चितम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.